|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.90. अध्यायः 090
Mahabharata - Vana Parva - Chapter Topics
लोमशेन युधिष्ठिरंप्रति स्वसाहित्येन तीर्थयात्राविधायकपार्थवचननिवेदनम् ॥ 1 ॥ युधिष्ठिरेण लोमशाशयाऽधिक परिजनविसर्जनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-90-0x(1999)(19739)
धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर।
युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया धिया ॥ 3-90-1(19740)
त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन।
श्रीमतां चापि जानासि धर्मं राज्ञां सनातनम् ॥ 3-90-2(19741)
स भवान्परमं वेद रपावनं पुरुषं प्रति।
तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवान् ॥ 3-90-3(19742)
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः।
तथा सर्वात्मना कार्यमिति मामर्जुनोऽब्रवीत् ॥ 3-90-4(19743)
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः।
रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च ॥ 3-90-5(19744)
दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम्।
तथा रक्षस्व कौन्तेयान्राक्षसेभ्यो द्विजोत्तम ॥ 3-90-6(19745)
यातुधाना हि बहवो राक्षसाः पर्वतोपमाः।
त्वयाऽभिगुप्तान्कौन्तेयान्न विवर्तेयुरन्तिकम् ॥ 3-90-7(19746)
सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च।
रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वा सह ॥ 3-90-8(19747)
द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन।
इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह ॥ 3-90-9(19748)
इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर।
मन्वादिभिर्महाराज तीर्थयात्रा भयापहा ॥ 3-90-10(19749)
नानृजुर्नाकृतात्मा च नाविद्यो न च पापकृत्।
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ 3-90-11(19750)
त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसंगरः।
विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि ॥ 3-90-12(19751)
यथा भगीरथो राजा राजानश्च गयादयः।
यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव ॥ 3-90-13(19752)
युधिष्ठिर उवाच। 3-90-14x(2000)
न हर्षात्संप्रपश्यामि वाक्यस्यास्योत्तरं क्वचित्।
यन्मां स्मरति देवेशः किं नामाभ्यधिकं ततः ॥ 3-90-14(19753)
भवता संगमो यस् भ्राता चैव धनंजयः।
वासवः स्मरते यस् को नामाभ्यधिकस्ततः ॥ 3-90-15(19754)
यच्च मां भगवानाह तीर्थानां गमनं प्रति।
धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे ॥ 3-90-16(19755)
तद्यदा मन्यसे ब्रह्मन्गमनं तीर्तदर्शने।
तदैव गन्तास्मि तीर्तान्येष मे निश्चयः परः ॥ 3-90-17(19756)
वैशम्पायन उवाच। 3-90-18x(2001)
गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत्।
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि ॥ 3-90-18(19757)
युधिष्ठिर उवाच। 3-90-19x(2002)
भिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये ॥ 3-90-19(19758)
क्षुत्तृडध्वश्रमायासशीतार्तिमसहिष्णवः।
ते सर्वे विनिवर्तन्तां ये च मृष्टभुजो द्विजाः ॥ 3-90-20(19759)
पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः।
तेऽपि सर्वे निवर्तन्तां ये च सूदानुयायिनः।
मया यथोचिताऽऽजीव्यौः संविभक्ताश्च वृत्तिभिः ॥ 3-90-21(19760)
ये चाप्यनुगताः पौरा राजभक्तिपुरःसराः।
धृतराष्ट्रं महाराजमभिगच्छन्तु ते च वै।
स दास्यति यथाकालमुचिता यस्य या भृतिः ॥ 3-90-22(19761)
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः।
अस्मत्प्रियहितार्थायपाञ्चाल्यो वः प्रदास्यति ॥ 3-90-23(19762)
वैशम्पायन उवाच। 3-90-24x(2003)
ततो भूयिष्ठशः पौरा गुरौ भारे समाहिते।
विप्राश्च यतयो मुख्या जग्मुर्नागपुरं प्रति ॥ 3-90-24(19763)
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाऽम्बिकासुतः।
प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् ॥ 3-90-25(19764)
ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह।
लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् ॥ 3-90-26(19765)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि नवतितमोऽध्यायः ॥ 90 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-90-3 पुरुषप्रति पुरुषस्येत्यर्थः ॥ 3-90-9 द्विः द्विवारम्। तृतीयं तृतीयवारम् ॥ 3-90-10 तीर्तयात्रा शुभावहेति क ध. पाठः ॥ 3-90-11 नानृती नाकृतात्मा चेति क. ध. पाठः ॥ 3-90-18 लघुरल्पपरिवारः ॥ 3-90-21 विकल्पकाः मृष्टामृष्टविभाजकाः। आजीव्यैर्भृत्यादिभिः। वृत्तिभिर्जीवनहेतुभिरन्नादिभिः ॥ 3-90-23 पाञ्चाल्यो द्रुपदः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|